|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.106. अध्यायः 106
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति गोदानप्रशंसापरनाचिकेतोपाख्यानकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ।
विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम्॥ 13-106-1(85665)
भीष्म उवाच। 13-106-2x(7110)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ऋषेरौद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः॥ 13-106-2(85666)
ऋषिरौद्दालकिर्दीक्षामुपगम्य ततः सुतम्।
त्वं मामुपचरस्वेति नाचिकेतमभाषत॥ 13-106-3(85667)
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत्।
उपस्पर्शनसक्तस्य स्वाध्यायाभिरतस्य च॥ 13-106-4(85668)
इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम्।
विस्मृतं मे तदादाय नदीतीरादिहाव्रज॥ 13-106-5(85669)
गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम्।
न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः॥ 13-106-6(85670)
क्षुत्पिपासाश्रमाविष्टो मुनिरौद्दालकिस्तदा।
यमं पश्येति तं पुत्रमशपत्क्रोधमूर्च्छितः॥ 13-106-7(85671)
तथा स पित्राऽभिहतो वाग्वज्रेण कृताञ्जलिः।
प्रसीदेति ब्रुवन्नेव गतसत्वोऽपतद्भुवि॥ 13-106-8(85672)
नाचिकेतं प्रिता दृष्ट्वा पतितं दुःखमूर्च्छितः।
किं मया कृतमित्युक्त्वा निपपात महीतले॥ 13-106-9(85673)
तस्य दुःखपरीतस्य स्वं पुत्रमनुशोचतः।
व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी॥ 13-106-10(85674)
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह।
प्रास्यन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम्॥ 13-106-11(85675)
स पर्यपृच्छत्तं पुत्रं श्लाघ्यं पर्यागतं पुनः।
दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम्॥ 13-106-12(85676)
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा।
दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः॥ 13-106-13(85677)
प्रत्यक्षदार्शी सर्वस्य वित्रा पृष्टो महात्मना।
अभ्युत्थाय पितुर्मध्ये महर्षीणां न्यवेदयत्॥ 13-106-14(85678)
कुर्वन्मवच्छासनमाशु यातो
ह्यहं विशालां रुचिरप्रभासाम्।
वैवस्वतीं प्राप्य सभामवश्यं
सहस्रशो योजनहैमभौमाम्॥ 13-106-15(85679)
दृष्टैव मामभिमुखमापतन्तं
गृहं निवेद्यासनमादिदेश।
वैवस्वतोऽर्घ्यादिभिरर्हणैश्च
भवत्कृते पूजयामास मां साः॥ 13-106-16(85680)
ततस्त्वहं तं शनकैरवोचं
वृतः सदस्यैरभिपूज्यमानः।
प्राप्तोऽस्मि ते विषयं धर्मराज
लोकानर्हो यानहं तान्विधत्स्व॥ 13-106-17(85681)
यमोऽब्रवीन्मां न मृतोसि सौम्य
यमं पश्येत्याह स त्वां तपस्वी।
पिता प्रदीप्ताग्निसमानतेजा
न तत्छक्यमनृतं विप्र कर्तुम्॥ 13-106-18(85682)
दृष्टस्तेऽहं प्रतिगच्छस्व तात
शोचत्यसौ तव देहस्य कर्ता।
ददानि किञ्चापि मनःप्रणीतं
प्रियातिथेस्तव कामान्वृणीष्व॥ 13-106-19(85683)
तेनैवमुक्तस्तमहं प्रत्यवोचं
प्राप्तोस्मि ते विषयं दुर्निवर्त्यम्।
इच्छाम्यहं पुण्यकृतां समृद्धाँ-
ल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः॥ 13-106-20(85684)
यानं समारोप्य तु मां स देवो
वाहैर्युक्तं सुप्रभं भानुमत्तम्।
संदर्शयामास तदाऽऽत्मलोका-
न्सर्वास्तथा पुण्यकृतां द्विजेन्द्र॥ 13-106-21(85685)
अपश्यं तत्र वेश्मानि तैजसानि महात्मनाम्।
नानासंस्थानरूपाणि सर्वरत्नमयानि च॥ 13-106-22(85686)
चन्द्रमण्डलशुभ्राणि किंकिणीजालवन्ति च।
अनेकशतभौमानि सान्तर्जलवनानि च॥ 13-106-23(85687)
वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च।
तरुणादित्यवर्णानि स्थावराणि चराणि च॥ 13-106-24(85688)
भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च।
सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान्॥ 13-106-25(85689)
नद्यो वीथ्यः सभा वाप्यो दीर्घिकाश्चैव सर्वशः।
घोषवन्ति च यानानि युक्तान्धथ सहस्रशः॥ 13-106-26(85690)
क्षीरस्रवा वै सरितो गिरींश्च
सर्पिस्तथा विमलं चापि तोयम्।
वैवस्वतस्यानुमतांश्च देशा-
नदृष्टपूर्वान्सुबहूनपश्यम्॥ 13-106-27(85691)
सर्वान्दृष्ट्वा तदहं धर्मराज-
मवोचं वै सर्वदेवं सहिष्णुम्।
क्षीरस्यैताः सर्पिषश्चैव नद्यः
शश्वत्स्रोताः कस्य भोज्याः प्रवृत्ताः॥ 13-106-28(85692)
यमोऽब्रवीद्विद्धि भोज्यांस्त्वमेता-
न्ये दातारः साधवो गोरसानाम्।
अन्ये लोकाः शाश्वता वीतशोकैः
समाकीर्णा गोप्रदाने रतानाम्॥ 13-106-29(85693)
न त्वेतासां दानमात्रं प्रशस्तं
पात्रं कालो गोविशेषो विधिश्च।
ज्ञात्वा देयं विप्र गवान्तरं हि
दुःखं ज्ञातुं पावकादित्यभूतम्॥ 13-106-30(85694)
स्वाध्यायवान्योऽतिमात्रं तपस्वी
वैतानस्थो ब्राह्मणः पात्रमासाम्।
गोषु क्षान्तं गोशरण्यं कृतज्ञं
वृत्तिग्लानं तादृशं पात्रमाहुः॥ 13-106-31(85695)
कृच्छ्रोत्सृष्टाः पोष्णाभ्यागताश्च
द्वारैरेतैर्गोविशेषाः प्रशस्ताः।
अन्तर्जाताः सुक्रयज्ञानलब्धाः
प्राणक्रीताः सोदकाः सोद्वहाश्च॥ 13-106-32(85696)
तिस्रो रात्र्यस्त्वद्भिरुपोष्य भूमौ
तृप्ता गावस्तर्पितेभ्यः प्रदेयाः।
वत्सैः प्रीताः सुप्रजाः सोपचारा-
स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम्॥ 13-106-33(85697)
दत्त्वा धेनुं सुव्रतां साधुदोहां
कल्याणवत्सामपलायिनीं च।
यावन्ति रोमाणि भवन्ति तस्या-
स्तावद्वर्षाण्यश्नुते स्वर्गलोकम्॥ 13-106-34(85698)
तथाऽनड्वाहं ब्राह्मणेभ्यः प्रदाय
दान्तं धुर्यं बलवन्तं युवानम्।
कुलानुजीव्यं वीर्यवन्तं बृहन्तं
भुङ्क्ते लोकान्सम्मितान्धेनुदस्य॥ 13-106-35(85699)
वृद्धे ग्लाने सम्भ्रमे वा महार्थे
कृष्यर्थं वा हौम्यहेतोः प्रमूत्याम्।
गुर्वर्थं वा यज्ञसमाप्तये वा
गां वै दातुं देशकालोऽविशिष्टः॥ 13-106-36(85700)
नाचिकेत उवाच। 13-106-37x(7111)
श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रवम्।
अगोमी गोप्रदातॄणां कथं लोकान्हि गच्छति॥ 13-106-37(85701)
ततोऽब्रवीद्यमो धीमान्गोप्रदानं ततो गतिम्।
गोप्रदानानुकल्पात्तु गामृते सन्तु गोप्रदाः॥ 13-106-38(85702)
अलाभे यो गवां दद्याद्धृतधेनुं यतव्रतः।
तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव॥ 13-106-39(85703)
घृतालाभे तु यो दद्यात्तिलधेनुं यतव्रतः।
स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते॥ 13-106-40(85704)
तिलालाभे तु यो दद्याज्जलधेनुं यतव्रतः।
स कामप्रवहां शीतीं नदीमेतामुपाश्नुते॥ 13-106-41(85705)
एवमेतानि मे तत्र धर्मराजो न्यदर्शयत्।
दृष्ट्वा च परमं हर्षमवापमहमच्युत॥ 13-106-42(85706)
निवेदये चाहमिमं प्रियं ते
क्रतुर्महानल्पधनप्रचारः।
प्राप्तो मया तात स मत्प्रसूतः
प्रपत्स्यते वेदविधिप्रवृत्तः॥ 13-106-43(85707)
शापो ह्ययं भवतोऽनुग्रहाय
प्राप्तो मया यत्र दृष्टो यमो वै।
दानव्युष्टिं तत्र दृष्ट्वा महात्म-
न्निःसंदिग्धान्दानधर्मांश्चरिष्ये॥ 13-106-44(85708)
इदं च मामब्रवीद्धर्मराजः
पुनः पुनः सम्प्रहृष्टो महर्षे।
दानेन यः प्रयतोऽभूत्सदैव
विशेषतो गोप्रदानं च कुर्याम्॥ 13-106-45(85709)
शुद्धो ह्यर्थो नावमन्यस्व धर्मा-
न्पात्रे देयं देशकालोपपन्ने।
तस्माद्गावस्ते नित्यमेव प्रदेया
माभूच्च ते संशयः कश्चिदत्र॥ 13-106-46(85710)
एताः पुरा ह्यददन्नित्यमेव
सान्तात्मानो दानपथे निविष्टाः।
तपांस्युग्राण्यप्रतिशङ्कमाना-
स्ते वै दानं प्रददुश्चैव शक्त्या॥ 13-106-47(85711)
काले च शक्त्या मत्सरं वर्जयित्वा
शुद्धात्मानः श्रद्धिनः पुण्यशीलाः।
दत्त्वा गा वै लोकममुं प्रपन्ना
देदीप्यन्ते पुण्यशीलास्तु नाके॥ 13-106-48(85712)
एतद्दानं न्यायलब्धं द्विजेभ्यः
पात्रे दत्तं प्रापणीयं परीक्ष्य।
काम्याष्टम्यां वर्तितव्यं दशाहं
रसैर्गवां शकृता प्रस्नवैर्वा॥ 13-106-49(85713)
देवव्रती स्याद्वृषभप्रदानै-
र्वेदावाप्तिर्गोयुगस्य प्रदाने।
तीर्थावाप्तिर्गोप्रयुक्तप्रदाने
पापोत्सर्गः कपिलायाः प्रदाने॥ 13-106-50(85714)
गामप्येकां कपिलां सम्प्रदाय
न्यायोपेतां कलुषाद्विप्रमुच्येत्।
गवां रसात्परमं नास्ति किञ्चि-
द्गवां प्रदानं सुमहद्वदन्ति॥ 13-106-51(85715)
गावो लोकांस्तारयन्ति क्षरन्त्यो
गावश्चान्नं संजनयन्ति लोके।
यस्तं जानन्न गवां हार्दमेति
स वै गन्ता निरयं पापचेताः॥ 13-106-52(85716)
यैस्तद्दत्तं गोसहस्रं शतं वा
दशार्धं वा दश वा साधुवत्सम्।
अप्येका वै साधवे ब्राह्मणाय
सास्यामुष्मिन्पुण्यतीर्था नदी वै॥ 13-106-53(85717)
प्राप्त्या पुष्ट्या लोकसंरक्षणेन
गावस्तुल्याः सूर्यपादैः पृथिव्याम्।
शब्दश्चैकः संनतिश्चोपभोगा-
स्तस्माद्गोदः सूर्य इवावभाति॥ 13-106-54(85718)
गुरुं शिष्यो वरयेद्गोप्रदाने
स वै गन्ता नियतं स्वर्गमेव।
विधिज्ञानां सुमहान्धर्म एष
विधिं ह्याद्यं विधयः संविशन्ति॥ 13-106-55(85719)
इदं दानं न्यायलब्धं द्विजेभ्यः
पात्रे दत्त्वा प्रापयेथाः परीक्ष्य।
त्वय्याशंसन्त्यमरा दानवाश्च
वयं चापि प्रसृते पुण्यशीले॥ 13-106-56(85720)
इत्युक्तोऽहं धर्मराजं द्विजर्षे
धर्मात्मानं शिरसाऽभिप्रणम्य।
अनुज्ञातस्तेन वैवस्वतेन
प्रत्यागमं भगवत्पादमूलम्॥ ॥ 13-106-57(85721)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षडधिकशततमोऽध्यायः॥ 106 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-106-5 कलशश्चातिभोजनम् इति झ.पाठ.। तत्र अतिभोजनं भोजनसामग्रिकं शाकादि॥ 7-106-8 गतसत्वो मृतः॥ 7-106-11 सस्यं शुष्यमाणम्॥ 7-106-15 योजनेति लुप्ततृतीयान्तं पदम्। योजनैः सहस्रशः सम्मितामिति शेषः॥ 7-106-23 अनेकशतानि भौमानि उपर्युपरि भूमिसमूहा येषु तानि प्रासादमण्डलानि॥ 7-106-30 गवामन्तरमन्योन्यतारतम्यं। अवङ्॥ 7-106-31 कृच्छ्रोत्सृष्टाः सङ्कटात् निरोधात् मुक्ताः। पोषणार्थं दरिद्रागारादागताः। तादृशीनां पालनं प्रशस्ततरमित्यर्थः॥ 7-106-33 त्र्यहमम्मात्राहारो भूमिशायी भूत्वा चतुर्थं दिनमारभ्य त्र्यहमेकैकां गां दत्त्वा गोरसैर्वृत्तिं कुर्यात्। एवं व्रतपूर्वकं गोत्रयं ददत उक्तं वक्ष्यमाणं च फलं भवतीत्यर्थः॥ 7-106-36 वृद्धे ग्लाने रोगिणि पथ्याशनार्थं सम्भ्रमे दुर्भिक्षे। महार्थे यज्ञाद्यर्थे च। प्रसूत्यां पुत्रजन्मनि॥ 7-106-43 क्रतुः गोदानरूपः॥ 7-106-49 प्रापणीयं गोः आहारादि। कामे इच्छापूरणे साधुः काम्या या अष्टमी शुक्लकृष्णान्यतरा तस्यां॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|